केलि-कला-कुतुकेन च काचिदमुं यमुनावनकुले।
मञजुल-वञजुल-कुञजगतं विचकर्ष करेण दुकूले
[हरिरिह-मुग्ध-वधुनिकरे... ॥44॥]
करतल-ताल-तरल-वलयावलि-कलित-कलस्वन-वंशे।
रासरसे सहनृत्यपरा हरिणा युवति: प्रशंससे
[हरिरिह-मुग्ध-वधुनिकरे... ॥45॥]
श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामां।
पश्यति सस्मित-चारुतरामपरामनुगच्छति बामां ॥7॥
[हरिरिह-मुग्ध-वधुनिकरे... ॥46॥]
श्रीजयदेव-भणितमिदमभुत-केशव-केलि-रहस्यं ।
वृन्दावन-विपिने ललितं वितनोतु शुभानि यशस्यम्
[हरिरिह-मुग्ध-वधुनिकरे... ॥47॥]